(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.23. अध्यायः 023
Mahabharata - Virata Parva - Chapter Topics
द्रौपद्या भीमंप्रति स्ववैभवानुस्मारणेन परिशोचनपूर्वकं कीचकहननचोदना ॥ 1 ॥
Mahabharata - Virata Parva - Chapter Text

द्रौपद्युवाच। 4-23-0x(3083)(29235)
अहं सैरन्ध्रिवेषेण वसन्ती राजवेश्मनि।
वशगाऽस्मि सुदेष्णाया अक्षधूर्तस्य कारणात् ॥ 1 ॥ 4-23-1(29236)
विक्रियां पश्य मे तीव्रां राजपुत्र्याः परन्तप।
आसे कालमुपासीना सर्वदुःखसहा पुनः ॥ 2 ॥ 4-23-2(29237)
अनित्याः खलु मर्त्यानामर्थाश्च व्यसनानि च।
इति मत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ॥ 3 ॥ 4-23-3(29238)
चक्रवत्परिवर्तन्ते ह्यर्थाश्च व्यसनानि च ।
इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ॥ 4 ॥ 4-23-4(29239)
य एव हेतुर्भवति पुरुषस्य जयावहः।
पराजये च हेतुः स इति च प्रतिपालये ॥ 5 ॥ 4-23-5(29240)
दत्त्वा याचन्ति पुरुषा हत्वा हन्यन्त एव ते।
पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम् ॥ 6 ॥ 4-23-6(29241)
न दैवस्यातिभारोस्ति न चैवास्यातिवर्तनम्।
इति चाप्यागमं भूयो दैवस्य प्रतिपालये ॥ 7 ॥ 4-23-7(29242)
स्थितं पूर्वं जलं यत्र न पुनस्तत्र तिष्ठति ।
इति पर्यायमिच्छन्ति प्रतीक्षाम्युदयं पुनः ॥ 8 ॥ 4-23-8(29243)
दैवेन किल यस्यार्थः सुनीतोपि विपद्यते।
सदा दैवागमे यत्नस्तेन कार्यो विजानता ॥ 9 ॥ 4-23-9(29244)
किंनु मे वचनस्याद्य कथितस्य प्रयोजनम् ।
पृच्छ मां दुःखितामेनामपृष्टाऽपि ब्रवीमि ते ॥ 10 ॥ 4-23-10(29245)
महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च ।
इमामवस्थां संप्राप्ता मदन्या का जिजीविषेत् ॥ 11 ॥ 4-23-11(29246)
कुरून्परिहरन्सर्वान्पाञ्चालानपि भारत।
पाण्डवेयांश्च संप्राप्तो मम शोको ह्यरिन्दम ॥ 12 ॥ 4-23-12(29247)
भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परिवारिता।
एवं समुदिता नारी कान्वेयं दुःखभागिनी ॥ 13 ॥ 4-23-13(29248)
नूनं बालतया धातुर्मया वै विप्रियं कृतम्।
तस्य प्रभावाद्दुर्नीतं प्राप्ताऽस्मि भरतर्षभ ॥ 14 ॥ 4-23-14(29249)
वर्णं विकारमपि मे पश्य पाण्डव यादृशम् ।
ईदृशो मे न तत्रासीद्दुःखे परमके पुरा ॥ 15 ॥ 4-23-15(29250)
त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा।
साऽहं दासीत्वमापन्ना न शान्तिं मनसा लभे॥ 16 ॥ 4-23-16(29251)
तद्दैविकमिदं मन्ये यत्र पार्थो धनञ्जयः।
भीमधन्वा महारङ्गे चास्ते शान्त इवानलः ॥ 17 ॥ 4-23-17(29252)
अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः ।
विनिपातमिमं पश्य युष्माकमविचिन्तितम् ॥ 18 ॥ 4-23-18(29253)
यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा।
सा प्रेक्ष्य मुखमन्यासामवराणां वरा सती ॥ 19 ॥ 4-23-19(29254)
पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा ।
युष्मासु ध्रियमाणेषु पाञ्चालेषु च मानद ॥ 20 ॥ 4-23-20(29255)
यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी।
आसीत्साऽद्य सुदेष्णायाः पाञ्चाली वशवर्तिनी ॥ 21 ॥ 4-23-21(29256)
यस्याः पुरश्चरा ह्यासन्पृष्ठतश्चानुगामिनः।
साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी ॥ 22 ॥ 4-23-22(29257)
इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत्।
या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः ।
अन्यत्र कुन्त्या भद्रं ते सा पिनष्म्यद्य चन्दनं ॥ 23 ॥ 4-23-23(29258)
पश्य कौन्तेय पाणी मे नैवं वै भवतः पुरा।
इत्यस्मै दर्शयामास किणवन्तौ करावुभौ ॥ 24 ॥ 4-23-24(29259)
बिभेमि कुन्त्या या नाऽहं युष्माकं वा कदाचन।
साऽद्याग्रतो विराटस्य भीता तिष्ठामि किंकरी ॥ 25 ॥ 4-23-25(29260)
किंनु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा।
नान्यपिष्टं विराटस्य चन्दनं किल रोचते ॥ 26 ॥ 4-23-26(29261)
वैशम्पायन उवाच। 4-23-27x(3084)
सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी।
रुरोद शनकैः कृष्णा भीमस्योरस्समाश्रिता ॥ 27 ॥ 4-23-27(29262)
सा बाष्पकलया वाचा निश्वसन्ती पुनःपुनः ।
हृदयं भीमसेनस्य घटयन्तीदमब्रवीत् ॥ 28 ॥ 4-23-28(29263)
नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा।
अभाग्या या तु जीवामि मर्तव्ये सति पाण्डव ॥ 29 ॥ 4-23-29(29264)
कीचकं चेन्न हन्यास्त्वं स्वात्मानं नाशयाम्यहम्।
विषमालोड्य पास्यामि प्रवेक्ष्याम्यथवाऽनलम्।
अभाग्याऽहमपुण्याऽहं नित्यदुःखा च विक्लवा ॥ 30 ॥ 4-23-30(29265)
पापे निपतितायाश्च किं फलं जीवितेन मे।
इत्यस्मै दर्शयामास किणबद्धौ करावुभौ ॥ 31 ॥ 4-23-31(29266)
ततस्तस्याः करौ पीनौ किणबद्धौ वृकोदरः।
मुखमानीय वेपन्त्या रुरोद परवीरहा ॥ 32 ॥ 4-23-32(29267)
तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान् ।
ततः परमदुःखार्त इदं वचनमब्रवीत् ॥ 32 ॥ ॥ 4-23-33(29268)

इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि त्रयोविंशोऽध्यायः ॥ 23 ॥

Mahabharata - Virata Parva - Chapter Footnotes
4-23-6 मानयित्वा च मान्यन्ते नरा दैवविपर्यये इति थo पाठः ॥ 6 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.